|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.67. अध्यायः 067
Mahabharata - Karna Parva - Chapter Topics
पार्थेनाश्वत्थाम्नि पराजिते कर्णेन भार्गवास्त्रप्रयोगात्पाण्डवसेनापीडनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-67-0x(4993)(58259)
द्रौणिस्तु रथवंशेन महता परिवारितः।
अपतत्सहसा राजन्यत्र पार्थो व्यवस्थितः॥ 8-67-1(58260)
तमापतन्तं सहसा शूरः शौरिसहायवान्।
दधार समरे पार्थो वेलेव मकरालयम्॥ 8-67-2(58261)
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान्।
अर्जुनं वासुदेवं च च्छादयामास सायकैः॥ 8-67-3(58262)
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः।
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा॥ 8-67-4(58263)
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव।
तदस्त्रं वारयामास ब्राह्मणो युधि भारत॥ 8-67-5(58264)
यद्यद्धि व्याक्षिपद्युद्धे फल्गुनोऽस्त्रं जिघांसया।
तत्तदस्त्रैर्महेष्वासो द्रोणपुत्रो जघान ह॥ 8-67-6(58265)
अस्त्रयुद्धे महाराज वर्तमाने महाभये।
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम्॥ 8-67-7(58266)
स दिशः प्रदिशश्चैव च्छादयित्वा ह्यजिह्मगैः।
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे॥ 8-67-8(58267)
ततोऽर्जुनो रथान्सर्वान्हत्वा तस्य पदानुगान्।
चकार समरे भूमिं शोणितौघपरिप्लुताम्।
[सर्बलोकवहां रौद्रां परलोकवहां नदीम्]॥ 8-67-9(58268)
सरथा रथिनः पेतुः पार्थचापच्युतैः शरैः॥ 8-67-10(58269)
[द्रौणेरपहतान्सङ्खे ददृशु स च तां तथा।
प्रावर्तयन्महाघोरां नदीं परवहां तदा॥ 8-67-11(58270)
तयोस्तु व्याकुले युद्धे द्रौणेः पार्थस्य दारुणे।
अमर्यादं योधयन्तः पर्यधावन्त पृष्ठतः॥ 8-67-12(58271)
रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः।
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः॥ 8-67-13(58272)
पार्थेन समरे राजन्कृतो घोरो जनक्षयः।
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः॥] 8-67-14(58273)
हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः।
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः॥ 8-67-15(58274)
अर्जुनं जयतां श्रेष्ठं त्वरितोऽभ्येत्य वीर्यवान्।
विधुन्वानो महच्चापं कार्तस्वरविभूषितम्॥ 8-67-16(58275)
अवाकिरत्ततो द्रौमिः समन्तान्निशितैः शरैः।
भूयोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा॥ 8-67-17(58276)
वक्षोदेशे भृशं पार्थं ताडयामास निर्दयम्।
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत॥ 8-67-18(58277)
गाण्डीवधन्वा प्रसभं शरवर्षैरुदारधीः।
सञ्छाद्य समरे द्रौणिं चिच्छेदास्य च कार्मुकम्॥ 8-67-19(58278)
स च्छिन्नधन्वा परिधं वज्रस्पर्शसमं युधि।
आदाय चिक्षेप तदा द्रोणपुत्रः किरीटिने॥ 8-67-20(58279)
तमापन्ततं परिघं जाम्बूनदपरिष्कृतम्।
चिच्छेद सहसा राजन्प्रहसन्निव पाण्डवः॥ 8-67-21(58280)
स पपात तदा भूमौ निकृत्तः पार्थसायकैः।
विकीर्णः पर्वतो राजन्यथा वज्रेण ताडितः॥ 8-67-22(58281)
ततः क्रुद्धो महाराज द्रोणपुत्रो महारथः।
ऐन्द्रेण चास्त्रवेगेन बीभत्सुं समवाकिरत्॥ 8-67-23(58282)
तस्येन्द्रजालावततं समीक्ष्य
पार्थो राजन्गाण्डिवमाददे सः।
ऐन्द्रं जालं प्रत्यहरत्तरस्वी
वरास्त्रमादाय महेन्द्रसृष्टम्॥ 8-67-24(58283)
विदार्य तज्जालमथेन्द्रमुक्तं
पार्थस्ततो द्रौणिरथं क्षणेन।
प्रच्छादयामास ततोऽभ्युपेत्य
द्रौणिस्तदा पार्थशराभिभूतः॥ 8-67-25(58284)
विगाह्य तां पाण्डवबाणवृष्टिं
शरैः परं नाम ततः प्रकाश्य।
शतेन कृष्णं सहसाभ्यविद्ध्या--
त्त्रिभिः शतैरर्जुनं क्षुद्रकाणाम्॥ 8-67-26(58285)
ततोऽर्जुनः सायकानां शतेन
गुरोः सुतं मर्मसु निर्बिभेद।
अश्वांश्च सूतं च तथा धनुर्ज्या--
मवाकिरत्पश्यतां तावकानाम्॥ 8-67-27(58286)
स विद्ध्वा मर्मसु द्रौणिं पाण्डवः परवीरहा।
सारथिं चास्य भल्लेन रथनीडादपातयत्॥ 8-67-28(58287)
स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छदयच्छरैः।
तत्राद्भुतमपरश्याम द्रौणेराशु पराक्रमम्॥ 8-67-29(58288)
संयच्छंस्तुरगान्यच्च फल्गुनं चाप्ययोधयत्।
तदस्य समरे राजन्सर्वभूतान्यपूजयन्॥ 8-67-30(58289)
`तेनास्य समरे योधास्तुष्टुवुः सर्व एव ते।
यदा निजगृहे पार्थो द्रोणपुत्रेण धन्विना॥ 8-67-31(58290)
तदा प्रहस्य बीभस्तुर्द्रोणपुत्रस्य संयुगे।
क्षिप्रं रश्मीनथाश्वानां क्षुरप्रैश्चिच्छिदे जयः॥ 8-67-32(58291)
प्राद्रवंस्तुरगास्तस्य शरवेगप्रपीडिताः।
ततोऽभून्निनदो घोरस्तव सैन्यस्य भारत॥ 8-67-33(58292)
पाण्डवास्तु जयं लब्ध्वा तव सैन्यं समाद्रवन्।
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः॥ 8-67-34(58293)
तावकी चतुरङ्गैषा पाण्डवैस्तु महाचमूः।
पुनःपुनरथो वीरैः प्रभग्ना जितकाशिभिः॥ 8-67-35(58294)
पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम्।
शकुनेः सौबलेयस्य कर्णस्य च विशाम्पते॥ 8-67-36(58295)
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर।
न चातिष्ठत सङ्ग्रामे पीड्यमाना समन्ततः॥ 8-67-37(58296)
ततो योधैर्महाराज पलायद्भिः समन्ततः।
अभवद्य्वाकुलं भीतं पुत्राणां ते महद्बलम्॥ 8-67-38(58297)
तिष्ठतिष्ठेति सततं सूतपुत्रस्य जल्पतः।
नावतिष्ठति सा सेना वध्यमाना महात्मभिः॥ 8-67-39(58298)
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः।
धार्तराष्ट्रबलं दृष्ट्वा विद्रुतं वै समन्ततः॥ 8-67-40(58299)
ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव।
पश्य कर्ण महासेनां पाण्डवैरर्दितां भृशम्॥ 8-67-41(58300)
त्वयि तिष्ठति सन्त्रासात्समन्तात्प्रपलायते।
एतज्ज्ञत्वा महाबाहो कुरु प्राप्तमरिन्दम॥ 8-67-42(58301)
सहस्राणि च योधानां त्वामेव पुरुषोत्तम।
क्रोशन्ते समरे वीर द्राव्यमाणानि पाण्डवैः॥ 8-67-43(58302)
सञ्जय उवाच। 8-67-44x(4994)
एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत्।
मद्रराजमिदं वाक्यमब्रवीत्प्रहसन्निव॥ 8-67-44(58303)
पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर।
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह॥ 8-67-45(58304)
वाहयाश्वान्नरव्याघ्र मद्राधिप न संशयः।
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान्॥ 8-67-46(58305)
प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम्।
सज्यं कृत्वा महाराज सम्मृज्य च पुनः पुनः॥ 8-67-47(58306)
सन्निवार्य च तान्योधान्सत्येन शपथेन च।
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः॥ 8-67-48(58307)
तस्माद्राजन्सहस्राणि प्रयुतान्यर्बुदानि च।
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे॥ 8-67-49(58308)
ज्वलितैस्तैः शरैर्घोरैः कङ्कबर्हिणवाजितैः।
सञ्चन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन॥ 8-67-50(58309)
हाहाकारो महानासीत्पाण्डवानां विशाम्पते।
पीडितानां बलवता भार्गवास्त्रेण संयुगे॥ 8-67-51(58310)
निपतद्भिर्गजै राजन्नश्वैश्चापि सहस्रशः।
रथैश्चापि नरव्याघ्र नरैश्चैव समन्ततः॥ 8-67-52(58311)
प्राकम्पत मही राजन्निहतैस्तैः समन्ततः।
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम्॥ 8-67-53(58312)
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः।
दहञ्शत्रून्नरव्याघ्रः शुशुभे स परन्तपः॥ 8-67-54(58313)
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह।
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः॥ 8-67-55(58314)
चुक्रुशुश्च नरव्याघ्र यथाप्राणं नरोत्तमाः।
तेषां तु क्रोशतां दीनं भीतानां रणमूर्धनि॥ 8-67-56(58315)
धावतां च ततो राजंस्त्रस्तानां च समन्ततः।
आर्तनादो बभूवात्र भूतानामिव सम्प्लुवे॥ 8-67-57(58316)
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष॥
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि॥ 8-67-58(58317)
ते वध्यमाताः समरे सूतपुत्रेण सृञ्जयाः।
अर्जुनं वासुदेवं च क्रोशन्ति च मुहुर्मुहुः।
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः॥ 8-67-59(58318)
श्रुत्वा तु निनदं तेषां वध्यतां कर्णसायकैः।
अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धऩञ्जयः।
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र समीरितम्॥ 8-67-60(58319)
पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम्।
नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन॥ 8-67-61(58320)
सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे।
अन्तकप्रतिमं वीर्ये कुर्वाणं कर्म दारुणम्॥ 8-67-62(58321)
अभीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः।
नच शक्ष्यामि कर्णस्य संयुगेऽहं पलायितुम्॥ 8-67-63(58322)
जीवन्प्राप्नोति पुरुषः सङ्ख्ये जयपराजयौ।
मृतस्य तु हृपीकेश भङ्ग एव कुतो जयः॥ 8-67-64(58323)
एष कर्णो रणे भाति मध्याह्न इव भास्करः।
निवर्तय रथं कृष्ण जीवन्भद्राणि पश्यति॥ ॥ 8-67-65(58324)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तद्वशदिवसयुद्धे सप्तषष्टितमोऽध्यायः॥ 67 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|